Vedāntasāre Nigaditasya Adhyāropa-Apavādanāyasya Tāttvikaṁ Viśleṣanam

Title: Vedāntasāre Nigaditasya Adhyāropa-Apavādanāyasya Tāttvikaṁ Viśleṣanam Download

Author’s : Dr. Devendra Singh Rajput

Date of Publication (ONLINE) :-11-02-2026
DOI :-10.71037/sanvahak.v2i1.09
Online Publication Certificate No. :- SNVHK/210
9

cite this article:
Rajput Dr. Devendra Singh. ”Vedāntasāre Nigaditasya Adhyāropa-Apavādanāyasya Tāttvikaṁ Viśleṣanam”, Published in Sanvahak (संवाहक), ISSN: 3108-1347(Online), Volume-2 | Issue-1, Jan.-March, 2026, Page No. :-55-63. URL : https://sanvahak.gyanvividha.com/wp-content/uploads/2026/09/Dr.-Devendr-singh-rajput-Sanvahak-vol-2-issue-1-Jan.-March-2026-pp-55-63.pdf

Abstract :  ​अस्मिन् शोधपत्रे सदानन्दयतिवर्येण वेदान्तसारे प्रति-पादितस्य अध्यारोपापवादन्यायस्य तात्त्विकं दार्शनिकं च विश्लेषणं साङ्गं कृतम्। अद्वैतवेदान्तदर्शने ब्रह्मज्ञानप्राप्तये अध्यारोपापवादप्रक्रिया सर्वोत्कृष्टा शिक्षणपद्धतिः महत्तत्त्वपूर्णा च वर्तते। वेदान्तशास्त्रस्य आदौ उपवर्णितैः अनुबन्धचतुष्टयैः— विशेषतः नित्यानित्यवस्तुविवेक-इहामु-त्रार्थफलभोगविराग-शमादिषट्कसम्पत्ति-मुमुक्षुत्वैः सम्पन्नः अधिकारी यदा संसारतापेन सन्तप्तः सन् तत्त्वज्ञानाय गुरुमनुसरति, तदा गुरुः अध्यारोपापवादन्यायेन तस्मै तत्त्वोपदेशं करोति। अत्र वस्तुरूपे सच्चिदानन्दाद्वैतब्रह्मणि अवस्तुरूपस्य अज्ञानस्य तत्कार्यभूतस्य सकलजगत्प्रपञ्चस्य च भ्रान्त्या आरोपः एव अध्यारोपः उच्यते। इदम् अज्ञानं सदसद्भ्याम् अनिर्वचनीयं त्रिगुणात्मकं च सत् आवरण-विक्षेपशक्तिद्वयेन युक्तं भवति। एतद् अज्ञानं समष्टिव्यष्टिभेदेन ईश्वर-प्राज्ञयोः रूपेण, विशुद्धमलिनसत्त्वगुणाभ्यां, तथा च पञ्चमहाभूतानां सूक्ष्म-स्थूलशरीराणां सप्तदशावयवयुक्तानां च सृष्ट्या जगत् मोहे पातयति।

​            अपरत्र अपवादः नाम रज्जुविवर्तस्य सर्पस्य रज्जुमात्रत्ववत् वस्तुविवर्तस्य अवस्तुनः प्रपञ्चस्य वस्तुमात्रत्वेन (ब्रह्मरूपेण) बाधनं निरसनं वा भवति। अत्र मृद्घटदृष्टान्तेन विकारविवर्तयोः सूक्ष्मं भेदं स्पष्टीकृत्य प्रतिपादितं यत् जगद् इदं ब्रह्मणः विवर्तः अस्ति, न तु स्वरूपविकारः। अनेन अध्यारोपापवादन्यायेन ‘तत्त्वमसि’ इत्यादिमहा-वाक्यानां वाच्यार्थं परित्यज्य लक्ष्यार्थस्य सम्यग् बोधः जायते, येन मुमुक्षुः जीवः अज्ञानं तदुपाधिश्च जित्वा स्वात्मानं नित्यशुद्धबुद्धमुक्तं चैतन्यस्वरूपं तुरीयं ब्रह्म एव इति साक्षात्करोति।

Keywords : अध्यारोपः, अपवादः, विवर्तः, अज्ञानः, समष्टि व्यष्टि इत्यादयः।

Publication Details:

Journal : Sanvahak (संवाहक)

ISSN : 3108-1347 (Online)

Published In : Volume-2 | Issue-1, Jan.-March, 2026

Page Number(s) : 55-63

Publisher Name :

 Mrs Anubha Chaudhary | https://sanvahak.gyanvividha.com | E-ISSN : 3108-1347

Leave a Reply

Your email address will not be published. Required fields are marked *