Title: Vedāntasāre Nigaditasya Adhyāropa-Apavādanāyasya Tāttvikaṁ Viśleṣanam Download
Author’s : Dr. Devendra Singh Rajput
Date of Publication (ONLINE) :-11-02-2026
DOI :-10.71037/sanvahak.v2i1.09
Online Publication Certificate No. :- SNVHK/2109
cite this article:
Rajput Dr. Devendra Singh. ”Vedāntasāre Nigaditasya Adhyāropa-Apavādanāyasya Tāttvikaṁ Viśleṣanam”, Published in Sanvahak (संवाहक), ISSN: 3108-1347(Online), Volume-2 | Issue-1, Jan.-March, 2026, Page No. :-55-63. URL : https://sanvahak.gyanvividha.com/wp-content/uploads/2026/09/Dr.-Devendr-singh-rajput-Sanvahak-vol-2-issue-1-Jan.-March-2026-pp-55-63.pdf
Abstract : अस्मिन् शोधपत्रे सदानन्दयतिवर्येण वेदान्तसारे प्रति-पादितस्य अध्यारोपापवादन्यायस्य तात्त्विकं दार्शनिकं च विश्लेषणं साङ्गं कृतम्। अद्वैतवेदान्तदर्शने ब्रह्मज्ञानप्राप्तये अध्यारोपापवादप्रक्रिया सर्वोत्कृष्टा शिक्षणपद्धतिः महत्तत्त्वपूर्णा च वर्तते। वेदान्तशास्त्रस्य आदौ उपवर्णितैः अनुबन्धचतुष्टयैः— विशेषतः नित्यानित्यवस्तुविवेक-इहामु-त्रार्थफलभोगविराग-शमादिषट्कसम्पत्ति-मुमुक्षुत्वैः सम्पन्नः अधिकारी यदा संसारतापेन सन्तप्तः सन् तत्त्वज्ञानाय गुरुमनुसरति, तदा गुरुः अध्यारोपापवादन्यायेन तस्मै तत्त्वोपदेशं करोति। अत्र वस्तुरूपे सच्चिदानन्दाद्वैतब्रह्मणि अवस्तुरूपस्य अज्ञानस्य तत्कार्यभूतस्य सकलजगत्प्रपञ्चस्य च भ्रान्त्या आरोपः एव अध्यारोपः उच्यते। इदम् अज्ञानं सदसद्भ्याम् अनिर्वचनीयं त्रिगुणात्मकं च सत् आवरण-विक्षेपशक्तिद्वयेन युक्तं भवति। एतद् अज्ञानं समष्टिव्यष्टिभेदेन ईश्वर-प्राज्ञयोः रूपेण, विशुद्धमलिनसत्त्वगुणाभ्यां, तथा च पञ्चमहाभूतानां सूक्ष्म-स्थूलशरीराणां सप्तदशावयवयुक्तानां च सृष्ट्या जगत् मोहे पातयति।
अपरत्र अपवादः नाम रज्जुविवर्तस्य सर्पस्य रज्जुमात्रत्ववत् वस्तुविवर्तस्य अवस्तुनः प्रपञ्चस्य वस्तुमात्रत्वेन (ब्रह्मरूपेण) बाधनं निरसनं वा भवति। अत्र मृद्घटदृष्टान्तेन विकारविवर्तयोः सूक्ष्मं भेदं स्पष्टीकृत्य प्रतिपादितं यत् जगद् इदं ब्रह्मणः विवर्तः अस्ति, न तु स्वरूपविकारः। अनेन अध्यारोपापवादन्यायेन ‘तत्त्वमसि’ इत्यादिमहा-वाक्यानां वाच्यार्थं परित्यज्य लक्ष्यार्थस्य सम्यग् बोधः जायते, येन मुमुक्षुः जीवः अज्ञानं तदुपाधिश्च जित्वा स्वात्मानं नित्यशुद्धबुद्धमुक्तं चैतन्यस्वरूपं तुरीयं ब्रह्म एव इति साक्षात्करोति।
Keywords : अध्यारोपः, अपवादः, विवर्तः, अज्ञानः, समष्टि व्यष्टि इत्यादयः।
Publication Details:
Journal : Sanvahak (संवाहक)
ISSN : 3108-1347 (Online)
Published In : Volume-2 | Issue-1, Jan.-March, 2026
Page Number(s) : 55-63
Publisher Name :
Mrs Anubha Chaudhary | https://sanvahak.gyanvividha.com | E-ISSN : 3108-1347



Total Users : 8050
Total views : 9159